संस्कृत-भाषायाः महत्तवम् ( संस्कृतम्)
संस्कृत-भाषायाः महत्तवम्
( ०१ ) संस्कृतम् अस्माकं जीवनस्य दिग्दर्शनं करोति । जीवनस्य लक्ष्यम् उन्नतं भवति ।
( ०२ ) स्वविषय-ज्ञानेन सह संस्कृतमपि जानीमः चेत् प्रतिष्ठा प्राप्यते ।
( ०३ ) अस्माकं संस्कारार्थं संस्कृतम् आवश्यकम्। अस्माकं सर्वे संस्काराः मन्त्रसहिताः सन्ति ।
( ०४ ) संस्कृतस्य वर्णमाला वैज्ञानिकी अस्ति । संस्कृतं वैज्ञानिकी, श्रेष्ठतमोच्चारणशास्त्रयुक्ता, परिपूर्णा भाषा । ( Scientific, Phonetic and Perfect language )
( ०५ ) संस्कृतोच्चारणेन अन्यभाषाणाम् उच्चारणं सुलभं भवति । संस्कृतकारणेन भारतीयभाषाः समृद्धाः भवन्ति ।
( ०६ ) संस्कृतस्य उच्चारणेन मस्तिष्कस्य भागद्वयस्यापि विकासः भवति । संस्कृतं केवलं वर्गविशिष्टस्य भाषा न, अपितु सर्वेषाम् । ( यथा - जाबाल:, व्यासः, वाल्मीकिः इत्यादयः )
( ०७ ) भाषाभावैक्यार्थं सामाजिकसमरसतार्थं च संस्कृतमावश्यकम् । तेनैव उच्चनीच-स्पृश्यास्पृश्यभेदनिवारणं भवति ।
( ०८ ) १९४९ तमे वर्षे डॉ. बाबासाहेब आम्बेडकरः 'भारतस्य राजभाषा संस्कृतं भवतु' इति प्रस्तावम् आनीतवान् । अन्य-विरोध-कारणतः सा अद्य तादृशं स्थानं न प्राप्तवति इति तु दुर्दैवम् ।
( ०९ ) विश्वे अधिकाधिकाः संस्कृतं पठितुम् उत्सुकाः सन्ति । भारतात् बहिः २४० विश्वविद्यालयेषु संस्कृतस्य पाठनं भवति । संस्कृते आध्यात्मिकज्ञानं केवलं न अपितु प्रवृत्तिपरका: विज्ञानतन्त्रज्ञानादि विद्या: अपि सन्ति ।
यथा -
गणितम्, खगोलशास्त्रम्, विमानशास्त्रम्, रसायनशास्त्रम्, आरोग्यशास्त्रम्, वास्तुरचनाशास्त्रम्, जीवशास्त्रम्, धातुशास्त्रम् इत्यादि ।
गणितम्, खगोलशास्त्रम्, विमानशास्त्रम्, रसायनशास्त्रम्, आरोग्यशास्त्रम्, वास्तुरचनाशास्त्रम्, जीवशास्त्रम्, धातुशास्त्रम् इत्यादि ।
( १० ) संस्कृतभाषायां लक्षाधिकाः पाण्डुलिपिग्रन्थाः सन्ति । संस्कृतेन स्वाभिमानस्य वर्धनं भवति । राष्ट्रैक्यस्य निर्माणं च भवति ।
जयतु संस्कृतम् ।। जयतु भारतम् ।।
किमर्थं संस्कृतम् ?
- यथा फ्रान्सदेशे फ्रेञ्च्, जर्मनीदेशे जर्मन्, रशियादेशे रशियन् तथा भारते संस्कृतम् अस्ति । यतः संस्कृतम् भारतस्य आत्मा अस्ति ।
- भारतीयानाम् अस्मिता संस्कृतम् अस्ति । सर्वेषां स्वाभिमानस्य प्रतीकम् अस्ति । भारतीयज्ञानस्य वाहिका - संस्कृतम् ।
संस्कृते विपुलं ज्ञान-भाण्डारं वर्तते । यथा -
चतुर्वेदाः पुराणानि सर्वोपनिषदस्तथा । रामायणं भारतं च गीता सद्दर्शनानि च ॥ इति ।
संस्कृतपठनेन वास्तविक-इतिहासस्य ज्ञानं भवति । संस्कृतद्वारा स्वमूलेन सह सम्बद्धाः भवामः ।
- संस्कृतम् अस्माकं जीवनस्य दिग्दर्शनं करोति । जीवनस्य लक्ष्यम् उन्नतं भवति ।
- स्वस्वविषय-ज्ञानेन सह संस्कृतमपि जानीमः चेत् प्रतिष्ठा प्राप्यते ।
- अस्माकं संस्कारार्थं संस्कृतम् आवश्यकम् । अस्माकं सर्वे संस्काराः मन्त्रसहिताः सन्ति ।
- संस्कृतस्य वर्णमाला वैज्ञानिकी अस्ति । संस्कृतं वैज्ञानिकी, श्रेष्ठतम-उच्चारणशास्त्रयुक्ता, परिपूर्णा भाषा । ( Scientific, Phonetic and Perfect language )
- संस्कृतोच्चारणेन अन्यभाषाणाम् उच्चारणं सुलभं भवति । संस्कृतम् अस्ति चेद् भारतीयभाषाः समृद्धाः भवन्ति ।
- संस्कृतस्य उच्चारणेन मस्तिष्कस्य भागद्वयस्य अपि विकासः भवति । संस्कृतं केवलं वर्गविशिष्टस्य भाषा न, अपितु सर्वेषाम् ।( यथा - कालीदासः, व्यासः, वाल्मीकिः इत्यादयः )
भाषाभावैक्यार्थं , सामाजिकसमरसतार्थं च संस्कृतम् आवश्यकम् । तेन एव उच्चनीच-स्पृश्यास्पृश्यभेदनिवारणं भवति ।
1949 तमे वर्षे डॉ. बाबासाहेब आम्बेडकरः भारतस्य राजभाषा संस्कृतं भवतु इति प्रस्तावम् आनीतवान् । अन्य-विरोध-कारणतः अद्य नास्ति इति तु दुर्दैवम् ।
- विश्वे अधिकाधिकाः संस्कृतं पठितुम् उत्सुकाः सन्ति । भारतात् बहिः २४० विश्वविद्यालयेषु संस्कृतस्य पाठनं भवति ।
संस्कृते आध्यात्मिकज्ञानं केवलं न अपितु एतत् विज्ञानतन्त्रज्ञानसहितम् अपि । यथा - गणितं, खगोलशास्त्रं , वैमानिकशास्त्रं, रसायनशास्त्रम्, आरोग्यशास्त्रं, वास्तुरचनाशास्त्रं, जीवशास्त्रं, धातुशास्त्रम् इत्यादि ।
- संस्कृतभाषायां ४५ लक्षाधिकाः पाण्डुलिपिग्रन्थाः सन्ति । संस्कृतेन स्वाभिमानस्य वर्धनं भवति । राष्ट्रैक्यस्य निर्माणं च भवति ।
एतेन प्रकारेण अत्युत्कृष्टा भारतीय-ज्ञानपरम्परा,भवात्मिका चिन्तनरीतिः,श्रेष्ठः जीवनादर्शः च संस्कृते अस्ति अतः संस्कृतम् अनिवार्यम्।
Comments
Post a Comment