सागरं सागरीयं नमामो वयम् (Sanskrit Song - Sagaram Sagariyam..)

सागरं सागरीयं नमामो वयम् (Sanskrit Song - Sagaram Sagariyam..)


सागरं सागरीयं नमामो वयम्,
काननं काननीयं नमामो वयम्।
पावनं पावनीयं नमामो वयम्,
भारतं भारतीयं नमामो वयम्॥

पर्वते सागरे वा समे भूतले,
प्रस्तरे वा गते पावनं संगमे।
भव्यभूते कृतं सस्मरामो वयम्,
भारतं भारतीयं नमामो वयम्॥ १॥

वीरता यत्र जन्माश्रिता संगता,
संस्कृति मानवीया कृता वा गता।
दैवसम्मानितं पावनं सम्पदम्,
भारतं भारतीयं नमामो वयम्॥ २॥

कोकिलाकाकली माधवामाधवी,
पुष्पसम्मानिता यौवनावल्लरी।
षट्पदानामिह मोददं गुञ्जनम्,
भारतं भारतीयं नमामो वयम्॥ ३॥

पूर्णिमा चन्द्रिका चित्तसम्बोधिका,
भावसंवर्धिका चास्ति रागात्मिका।
चञ्चलाचुम्बितं पावनं प्राङ्गणम्,
भारतं भारतीयं नमामो वयम्॥ ४॥

Comments

Popular posts from this blog

कथा-वाचन (Sanskrit story/ katha)

उच्चारण-स्थानानि (Uccharan Sthaan)

संस्कृत वाक्य रचना- धातु/लकार परिचय